Sbg 17.10 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।17.10।।तामसप्रीतिविषयं भोजनमुदाहरति। यातयामं मन्पक्कं निर्वीर्यस्य गतरसपदेनोक्तत्वात्। यातो यामः प्रहरो यस्य पक्कस्योदनादेः तद्यातयाममिति तु पाकानन्तरं किंचित्कालातिक्रान्त्या निर्वीर्यतां प्राप्तन्नं यातयाममुच्यते नतु याममात्रातिक्रान्त्या। एतएवायातयामत्वं वेदानामपि विशेषणं संगच्छत इत्याभिप्रेत्याचार्यैर्न व्याख्यातम्। गतरसं रसविमुक्तं निर्वीर्यमोदनादि। पूतिर्दुर्गन्धि लशुनपलाण्डावदि? पर्युषितं स्नेहानक्तं पक्कंसत् रात्र्यभिप्रेत्याचार्यैर्न च?अन्न पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् इति याज्ञवल्क्यस्मृत्या स्नेहाक्तस्य चिरसंस्थितस्याप्यन्नस्य भक्ष्यवत्वप्रतिपादनात्। उच्छिष्टं स्वपरभुक्तावशिष्टमपि चेति वैद्यकशास्त्रोक्तमपथ्यं समुच्चीयते। अमेध्यमपवित्रज्ञार्ह कलञ्चकलिङ्गादि ईदृशं भोजनं तामसस्य प्रियमिष्टम्। एवंविधभोजनप्रीतिमन्तस्तामसा ज्ञेयाः श्रेयोर्थिभिश्च तामसं भोजनं हेयमित्यर्थः। तामसभोजनकृतदोषास्तु प्रसिद्धत्वादसंख्यत्वाच्च नोक्ताः।