Sbg 16.8 scval
Sanskrit Commentary By Sri Vallabhacharya ।।16.8।।किञ्चासत्यमिति।त्वमेक एवास्य सतः प्रसूतिःसत्यस्य सत्यं इति भागवतवाक्यात्,[10।2।2826] सदेव सोम्येदमग्र आसीत् [छां.उ.6।2।1] तत्सत्यमित्याचक्षते [तैत्ति.2।6] इत्यादिश्रुतेश्च। सत्यं परमकाष्ठापन्नसत्यवस्तुकृतिसाध्यत्वात्तदात्मकं जगदेतत्तदसुरा असत्यमाहुः मायास्वाज्ञानकल्पितत्वादियुक्तिभिः। तथासति तन्मध्यपातिवेदतदुदितसाधनानि व्यर्थानि स्युः? अनुपादेयानि च। न हि खपुष्पशशशृङ्गादिभिर्व्यवहार उपपद्यतेऽसत्त्वादित्यर्थः। तथाऽप्रतिष्ठं ब्रह्मणि न प्रतिष्ठा यस्य तथेति वदन्ति। अनीश्वरं च सत्यसङ्कल्पेन पुरुषोत्तमस्वरूपेण विभुना नियमितं न वदन्ति। मया तूक्तं -- अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवृर्त्तते [10।8] इति।अहमेवात्मनाऽऽत्मानं सृजे हन्म्यनुपालये इति च। ते तु वदन्ति चैवम् -- अपरस्परसम्भूतं अपरस्परसम्भूतयोरन्योन्यसङ्गतयोः प्रकृतिरूपयोषित्पुरुषयोः परस्परसम्बन्धेन जातमिदं मनुष्यपश्वाद्युपलभ्यतेऽनेवम्भूतं किमन्यत् किञ्चिदपि नोपलभ्यत इति। अतः सर्वमिदं जगत्कामहैतुकमिति वदन्ति सहजासुराः।