Sbg 16.6 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।16.6।। अस्मिन् कर्म लोके कर्मकराणां भूतानां सर्गौ द्वौ द्विविधौ? दैवः च आसुरः च इति। सर्गः उत्पत्तिः? प्राचीनपुण्यपापरूपकर्मवशाद् भगवदाज्ञानुवृत्तितद्विपरीतकरणाय उत्पत्तिकाले एव विभागेन भूतानि उत्पद्यन्ते इत्यर्थः।तत्र दैवः सर्गो विस्तरशः प्रोक्तः। देवानां मदाज्ञानुवर्तिशीलानाम् उत्पत्तिः यदाचारकरणार्था स आचारः कर्मयोगज्ञानयोगभक्तियोगरूपो विस्तरशः प्रोक्तः। असुराणां सर्गः च यदाचारकरणार्थः तम् आचारं मे श्रृणु? मम सकाशाच्छृणु।