Sbg 16.5 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।16.5।।उभयोः कार्यं दर्शयन्नाह -- दैवी सम्पदिति। विमोक्षाय विशेषतो मोक्षाय पुष्टिर्मयादाभेदेन निबन्धायासुरीति नितरां बन्धायाज्ञदुर्ज्ञत्वभेदेनेत्यर्थः। एतन्निशम्य स्वस्वभावानिर्द्धारादतिभीतमर्जुनं समाश्वासयति -- मा शुच इति। त्वं तु दैवीं सम्पदमभिजातोऽसि? पाण्डुर्हि देवस्वभावो देवांशत्वाद्धार्मिकत्वाच्च न तथा धृतराष्ट्र इत्यतः कार्यस्य हेतुसाम्यौचित्यात्पाण्डवेति सन्बोधयति।