Sbg 16.5 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।16.5।। दैवी मदाज्ञानुवृत्तिरूपा संपद् विमोक्षाय बन्धात् मुक्तये भवति क्रमेण मत्प्राप्तये भवति इत्यर्थः। आसुरी मदाज्ञातिवृत्तिरूपा संपद् निबन्धाय भवति? अधोगतिप्राप्तये भवति इत्यर्थः।
एतत् श्रुत्वा स्वप्रकृत्यनिर्धारणाद् अतिभीताय अर्जुनाय एवम् आह -- शोकं मा कृथाः त्वं
तु दैवीं संपदम्
अभिजातः असि।
हे
पाण्डव
धार्मिकाग्रेसरस्य हि पाण्डोः तनयः त्वम् इति अभिप्रायः।