Sbg 16.5 scjaya
Sanskrit Commentary By Sri Jayatritha ।।16.5।।सम्पदं दैवीमभिजातोऽसि इत्यत्राभिजात उत्तमजन्मा। नायं धातुः सकर्मकः तत्कथं द्वितीया इत्याशङ्क्य अभिलक्ष्य जात इति केचित्(शं.)व्याचक्षते? तदसत्। अर्जुनस्य देवत्वेन देवत्वमुद्दिश्य जन्मायोगादित्याशयवानाह -- दैवीमि ति। अनेनैतदाचष्टे -- नायमभिरुपसर्गः? येन तस्य जनिसम्बन्धे द्वितीयानुपपत्तिर्लक्षिसम्बन्धे चोक्तानुपपत्तिः स्यात् किन्तु प्रत्यर्थे लक्षणे कर्मप्रवचनीयः। तथा चकर्मप्रवचनीययुक्ते द्वितीया [अष्टा.2।3।8] उपपद्यते। तथावृक्षमभिवृक्षं प्रति विद्योतते इत्यत्र वृक्षो विद्योतनस्य लक्षणमित्यर्थः। एवं दैवीसम्पज्जातस्य तव लक्षणमित्यर्थः। सम्पद्यते तथा चार्जुनस्य प्राप्तदेवत्वविरोध इति। अत एव सम्पदं दैवीमभिजातस्यअभिजातस्य पार्थ सम्पदमासुरीम् [16।4] इत्येतद्विहायेदं व्याख्यातम्। अर्जुनस्य देवत्वप्रसिद्धेरेतत्साहचर्यात्तत्राऽप्येतदर्थत्वोपपत्तेः।