Sbg 16.4 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।16.4।। आसुरीं संपदमाह -- दम्भ इति। दम्भो धर्मध्वजित्वम्? दर्पो धनविद्यादिनिमित्तश्चित्तस्योत्सेकः? अभिमानो व्याख्यातः? क्रोधः प्रसिद्धः? पारुष्यं निष्ठुरत्वम्? अज्ञानमविवेकः? आसुरीमित्युपलक्षणम्। असुराणां राक्षसानां च या संपत् तामासुरीमभिलक्ष्य जातस्यैतानि दम्भादीनि भवन्तीत्यर्थः।