Sbg 16.4 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।16.4।।अथेदानीं रजस्तमोमयी आसुरीसंपदुच्यते -- दम्भ इति। दम्भो धर्मध्वजित्वम्। दर्पः धनाभिजननिमित्त उत्सेकः। अभिमान आत्मनि पूज्यताबुद्धिः। क्रोधः प्रसिद्धः। पारुष्यं निष्ठुरभाषणम्। अज्ञानं अविवेकजनितो मिथ्याप्रत्ययः। एते आसुरीं संपदमभिलक्ष्य जातस्य भवन्ति हे पार्थ।