Sbg 16.4 scanand
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Anandgiri ।।16.4।।आदेयत्वेन दैवीं संपदमुक्त्वा हेयत्वेनासुरीं संपदमाह -- अथेति। उत्सेको मदो महदवधीरणाहेतुः? आत्मन्युत्कृष्टत्वाध्यारोपोऽतिमानः? क्रोधस्तु कोपापरपर्यायः स्वपरापकारप्रवृत्तिहेतुर्नेत्रादिविकारलिङ्गोऽन्तःकरणवृत्तिविशेषः। परुषो निष्ठुरः प्रत्यक्षरूक्षवाक् तस्य भावः पारुष्यं। तदुदाहरति -- यथेति। तामभिजातस्य दम्भादीन्यज्ञानान्तानि भवन्तीत्यनुषज्यते।