Sbg 16.3 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।16.3।।भूतेतरविषयस्तेजश्शब्दः पराभिभवनसामर्थ्ये अन्यानपेक्षतायां वा प्रयुज्यते अतोऽत्राभिभावकत्वाविनाभूतमनभिभवनीयत्वं विवक्षितम् तच्च दुर्जनावकाशप्रदायिकार्पण्याभावद्वारेत्यभिप्रायेणाह -- दुर्जनैरिति। अक्रोधात् क्षमाया विशेषं दर्शयति -- परनिमित्तपीडानुभवेऽपीति। निरपराधेषु निर्विकारता ह्यौदासीन्यमात्रम्। न तु क्षमा पठ्यते च निरपराधेष्वपि क्रोधः -- ब्राह्मणा गणिका वैद्याः सारमेयाश्च कुक्कुटाः। दृष्टमात्रेण कुप्यन्ति न जाने तत्र कारणम् इतीत्यभिप्रायः।परेषु तं प्रतीति -- परेषां पीडानुभवं प्रतीत्यर्थः। भयचापलनिवृत्तेः पृथगुक्तत्वादुपस्थितायामपि महत्यामापदि शास्त्रीयानुष्ठानसङ्कल्पस्य अप्रच्युतावलम्बनमिह सात्त्विकी धृतिरित्यभिप्रायेणाह -- महत्यामिति।महत्यापदि सम्प्राप्ते() स्मर्तव्यो भगवान् हरिः [म.भा.2।68।42] इति सुकरमुख्यकर्तव्यापरित्यागादितरदपि कर्तव्यं कृतमेव हि स्यादिति भावः। वक्ष्यति च सात्त्विकीं धृतिंधृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी [18।33] इति। योगेनाव्यभिचारिण्या मोक्षसाधनभूतभगवदुपासनाख्यप्रयोजनेन प्रयोजनान्तरनिरपेक्षयेत्यर्थः। शरीरवाङ्मनांसि ह्यशुचिपुरुषस्पर्शाशुचिद्रव्योपयोगादिभिरुपहतसत्त्वानि तेषुतेषु कर्मस्वयोग्यानि शास्त्रैः शिष्यन्ते। तदभावोऽत्र शौचमित्याहबाह्येति। प्रत्यक्षसिद्धकरणपाटवादिरूपकृत्ययोग्यताव्यवच्छेदायाह -- शास्त्रीयेति। अहिंसाया उक्तत्वादद्रोहस्य ततो विशेषप्रदर्शनायाह -- परेष्वनुपरोध इति। प्रबलेन हि दुर्बलाः स्ववशे स्थापिताः,स्वाच्छन्द्यान्निवार्यन्ते? सोऽयमुपरोधः तदकरणमत्रानुपरोध इत्याह -- स्वच्छन्देति। स्वस्य तु योगोपकारी स्वच्छन्दवृत्तिनिरोधस्तप एव। अतःपरेष्विति विशेषितम्। मानो गर्व इति पर्यायस्तु सामान्यत इह निषेद्धुमिष्टः तथापि वंशवीर्यश्रुताद्यनुगुणं मात्रया भवन्नसौ सह्येतापि अन्यथा भवन्नसुराणां धर्मतया वक्ष्यमाणोऽत्र न प्रसङ्गमर्हतीत्यभिप्रायेण सोपसर्गमाननिषेध इत्याह -- अस्थाने गर्व इति।
दैवीं सम्पदम् इत्युक्ते देवानां विभूतिः प्रतीयेत सा चात्र नान्वेति अतोऽभिप्रेतमवतारयितुं व्युत्पत्तिं तावदाह -- देवसम्बन्धिनीति।सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ इति विभागात्?सत्त्वात्सञ्जायते ज्ञानम् [14।17] इति सत्त्वस्यानुष्ठानपर्यन्तज्ञानहेतुत्वाच्च सत्त्वोत्तरत्वादेव भगवदाज्ञां नातिवर्तन्ते तदादावेवाह -- भगवदाज्ञानुवृत्तिशीला इति। सैव च तेषां सम्पदभिमता। अविवेकिनां भोग्यतत्साधनसमृद्धिवत्तेषां भगवदाज्ञानुवृत्तेः प्रीतिविषयत्वात्परमपुरुषार्थहेतुत्वाच्चेत्याह -- सा चेति। उक्तं चमहात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् [9।13] इति। अन्यत्र चविष्णुभक्तिपरो देवः [वि.ध.109।74अ.पु.373।12] इति। जातस्येत्यकर्मकस्य जायतेः पतत्यादिष्विवोपसर्गवशाद्द्वितीयान्वयमाह -- तामभिमुखीकृत्येति।अभिरभागे [अष्टा.1।4।91] इति कर्मप्रवचनीययोगाद्वा द्वितीया।अभिमुखीकृत्य अभिलक्ष्य यथा दैवी सम्पद्भवति? तथा कृत्वा जातस्येति यावत्। ईदृशगुणयुक्तानामेवंविधायाः सम्पदोऽवश्यम्भावित्वमत्र अभिमुखीकरणं विवक्षितम्। तथा च स्मर्यते -- जायमानं हि पुरुषं यं पश्येन्मधुसूदनः। सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः इति। तदिदमाह -- तां निर्वर्तयितुं जातस्येति।,