Sbg 16.3 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।16.3।।तेज इति। तेजः प्रागल्भ्यं स्त्रीबालकादिभिर्मूढैरनभिभाव्यत्वम्। क्षमा सत्यपि सामर्थ्ये परिभवहेतुंप्रति क्रोधस्यानुत्पत्तिः। धृतिर्देहेन्द्रियेष्ववसादं प्राप्तेष्वपि तदुत्तम्भकः प्रयत्नविशेषः। येनोत्तम्भितानि करणानि शरीरं च नावसीदन्ति। एतत्त्रयं क्षत्रियस्यासाधारणम्। शौचमाभ्यन्तरं अर्थप्रयोगादौ मायानृतादिराहित्यं नतु मृज्जलादिजनितं बाह्यमत्र ग्राह्यम्। तस्य शरीरशुद्धिरूपतया बाह्यत्वेनान्तःकरणवासनाशोधकत्वाभावात् तद्वासनानामेव सात्त्विकादिभेदभिन्नानां दैव्यासुर्यादिसंपद्रूपत्वेनात्र प्रतिपिपादयिषितत्वात्। स्वाध्यायादिवत्केनचिद्रूपेण वासनारूपत्वे तदप्यादेयमेव। द्रोहः परजिघांसया शस्त्रग्रहणादि तदभावोऽद्रोहः। एतद्वयं वैश्यस्यासाधारणम्। अत्यर्थं मानितात्मनि पूज्यत्वातिशयभावनातिमानिता,तदभावो नातिमानिता पूज्येषु नम्रता। अयं शूद्रस्यासाधारणो धर्मः।तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इत्यादिश्रुत्या विविदिषौपयिकतया विनियुक्ता असाधारणाः साधारणाश्च वर्णाश्रमधर्मा इहोपलक्ष्यन्ते। एते धर्मा भवन्ति निष्पद्यन्ते दैवीं शुद्धसत्वमयीं संपदं वासनासन्ततिं शरीरारम्भकाले पुण्यकर्मभिरभिव्यक्तामभिलक्ष्य जातस्य पुरुषस्यतं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च पुण्यः पुण्येन कर्मणा भवति पापः पापेन इत्यादिश्रुतिभ्यः। हे भारतेति संबोधयन् शुद्धवंशोद्भवत्वेन पूतत्वात्त्वमेतादृशधर्मयोग्योऽसीति सूचयति।