Sbg 16.3 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।16.3।।किंच तेजः प्रागल्भ्यं मूढैरभिभवितुमशक्यत्वम्। सत्यपि विक्रियाकारणाक्रोशादौ विक्रियानुत्पत्तिः क्षमा। उत्पन्नाया विक्रियाया उपशमनक्रोध मूढैरभिभवितुमशक्यत्वम्। सत्यपि विक्रियाकारणाक्रोशादौ विक्रियानुत्पत्तिः क्षमा। उत्पन्नाया विक्रियाया उपशमनक्रोध इत्यक्रोधेनापौनरुक्त्यम्। धृतिर्धैर्यमन्तःकरणस्य वृत्तिविशेषो येनोत्तम्भितानि करणानि देहश्चावसादकारणे सत्यपि नावसीदति। शौचं द्विविधं बाह्यमाभ्यन्तरं च मृज्जलाभ्यां कृतं बाह्यं मायारागादिकालुष्याभावेन मनोबुद्य्धोर्नैर्मल्यमाभ्यन्तरम्। स्वाध्यायादिवद्वाह्यशोचस्यापि सात्त्विकवासनाधीनत्वेन बाह्यं शौचमत्र न ग्राह्यं तस्य शरीरशुद्धिरुपतया बाह्यत्वेनान्तःकरणवासनाशोधकत्वाभावादिति प्रत्युक्तम्। परिजिघांसाभावोऽद्रोहः। आत्मनः पूज्यतातिशयभावनाऽतिमानिता तदभावो नातिमानिता। एतान्यभयादीनि एतदन्तानि सात्त्विकीं सत्त्वप्रधानां दैवीं देवानां संपदमभिलक्ष्य जातस्य दैवीविभूत्यर्हस्य भाविकल्याणस्य भवन्ति। त्वमपि उत्तमवंशोद्भवत्वाद्दैवीं संपदमभिलक्ष्य जातोऽसीति सूचयन्नाह भारतेति।