Sbg 16.3 scanand
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Anandgiri ।।16.3।।दैवीं संपदं प्राप्तस्य विशेषणान्तराण्यपि सन्तीत्याह -- किञ्चेति। व्यावर्त्यं कीर्तयति -- नेति। अध्यात्माधिकारादिति शेषः। क्षमाक्रोधयोरेकार्थत्वेन पौनरुक्त्यमाशङ्क्य परिहरति -- उत्पन्नायामिति। तयोरेवं विशेषादपौनरुक्त्यं फलतीत्याह -- इत्थमिति। वृत्तिविशेषमेव विशदयति -- येनेति। शौचस्य द्वैविध्यमेव प्रकटयति -- मृज्जलेत्यादिना। नैर्मल्यमेव स्फोरयति -- मायेति। उक्तमुपसंहरति -- एवमिति। अतिमानित्वाभावमेव व्यनक्ति -- आत्मन इति। कस्यैतानि विशेषणानीत्यपेक्षायामाह -- भवन्तीति। साधकस्य मनुष्यदेहस्थस्यैव कथं दैवीं संपदमभिलक्ष्य जातत्वमित्याशङ्क्याह -- दैवीति।