Sbg 16.2 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।16.2।। अहिंसा परपीडावर्जनम्।


सत्यं यथादृष्टार्थगोचरभूतहितवाक्यम्।


अक्रोधः परपीडाफलचित्तविकाररहितत्वम्।


त्यागः आत्महितप्रत्यनीकपरिग्रहविमोचनम्।


शान्तिः इन्द्रियाणां विषयप्रावण्यनिरोधसंशीलनम्।


अपैशुनं परानर्थकवाक्यनिवेदनाकरणम्।


दया भूतेषु सर्वेषु दुःखासहिष्णुत्वम्।


अलोलुप्त्वम्? अलोलुपत्वम्? अलोलुत्वम् इति वा पाठः। विषयेषु निःस्पृहत्वम् इत्यर्थः।


मार्दवम् अकाठिन्यम् साधुजनसंश्लेषार्हता इत्यर्थः।


ह्रीः अकार्यकरणे व्रीडा।


अचापलं स्पृहणीयविषयसन्निधौ अचपलत्वम्।