Sbg 16.2 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।16.2।।किञ्च अहिंसा प्राणिपीडावर्जनम्। सत्यमप्रियानृतवर्जनं यथाभूतार्थभाषणम्। अक्रोधः परैराक्रुष्टस्याभिहतस्य वा प्राप्तस्य क्रोधस्योपशमनम्। त्यागः सर्वकर्मसंन्यासः पूर्वं दानस्योक्तत्वात्। शान्तिरन्तःकरणस्योपरमः। अपैशुनं परदोषप्रकाशनं पैशुनं तद्वर्जनम्। दया दुःखितेषु भूतेषु कृपा। अलोलुप्त्वमिन्द्रियाणां विषयसंनिधावप्यविक्रिया। मार्दवं मृदुता। ह्रीर्लज्जा। अचापलं असति प्रयोजने वाक्पाणिपादादीनामव्यापारयितृत्वम्।