Sbg 16.24 scanand
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Anandgiri ।।16.24।।शास्त्रादृते कर्मणो निष्फलत्वे फलितमाह -- तस्मादिति। कर्तव्याकर्तव्यौ धर्माधर्मौ तस्य शास्त्रस्य प्रमाणत्वेऽपि मम किं कर्तव्यमित्याशङ्क्याह -- अत इति। स्वकर्म क्षत्रियस्य युद्धादि? इतिशब्दोऽध्यायसमाप्त्यर्थः। तदनेनाध्यायेन प्राग्भवीयकर्मवासनानुसारेणाभिव्यज्यमानसात्त्विकादिप्रकृतित्रयविभागेन दैव्यासुरीतिसंपद्द्वयमादानहानाभ्यामुपदिश्य कामक्रोधलोभानपहाय पुरुषार्थिना शास्त्रप्रवणेन तदुक्तकारिणा भवितव्यमिति निर्धारितम्।इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दगिरिकृतौ षोडशोऽध्यायः।।16।।