Sbg 16.23 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।16.23।।न केवलं काष्ठतपस्विवत्कामादित्यागमात्रेणोच्छास्त्रवर्ती सिध्यतीत्याह -- य इति। शास्त्रविधिं शास्त्रेण इष्टसाधनतयाऽनिष्टसाधनतया च ज्ञापितंब्राह्मणो यजेत?न सुरां पिबेत् इत्यादिना विहितं निषिद्धं च उत्सृज्य विहितमकरणेन निषिद्धमाचरणेन च उत्सृज्य यो वर्तते कामकारत इच्छया स सिद्धिं चित्तशुद्धिं,सुखं वैराग्यादिजनितां तृप्तिं परां गतिं मोक्षं च नावाप्नोति।