Sbg 16.20 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।16.20।। --, आसुरीं योनिम् आपन्नाः प्रतिपन्नाः मूढाः अविवेकिनः जन्मनि जन्मनि प्रतिजन्म तमोबहुलास्वेव योनिषु जायमानाः अधो गच्छन्तो मूढाः माम् ईश्वरम् अप्राप्य अनासाद्य एव हे कौन्तेय? ततः तस्मादपि यान्ति अधमां गतिं निकृष्टतमां गतिम्। माम् अप्राप्यैव इति न मत्प्राप्तौ काचिदपि आशङ्का अस्ति? अतः मच्छिष्टसाधुमार्गम् अप्राप्य इत्यर्थः।।सर्वस्या आसुर्याः संपदः संक्षेपः अयम् उच्यते? यस्मिन् त्रिविधे सर्वः आसुरीसंपद्भेदः अनन्तोऽपि अन्तर्भवति। यत्परिहारेण परिहृतश्च भवति? यत् मूलं सर्वस्य अनर्थस्य? तत् एतत् उच्यते --,