Sbg 16.1 scpur
Sanskrit Commentary By Sri Purushottamji
।।16.1।।विमुक्तिबन्धज्ञानार्थं दैवीसम्पत्तथाऽऽसुरी। सलक्षणा सकार्या च षोडशे विनिरूप्यते।।1।।
पूर्वाध्यायान्तेएतद्बुद्धा बुद्धिमान् कृतकृत्यः स्यात् [15।20] इत्युक्तम्? तत्र सृष्टौ बहव एव बुद्धिमन्तो दृश्यन्ते ते कथं नैतज्ज्ञानार्थं यतन्ते यतमानेष्वपि कथं न सर्वे एव ज्ञात्वा भजनेन कृतकृत्या भवन्ति इत्याशङ्क्याऽत्र दैवजीवा दैव्यामेव सम्पदि जाता अधिकारिणो यतमानाः कृतकृत्या भवन्तीति ज्ञापनाय दैवीसम्पत्स्वरूपमाह -- अभयमित्यादित्रयेण। अभयं भयाभावः? कालादिसर्वनियामकत्वेनेश्वरज्ञानात् सत्त्वस्य चित्तस्य सम्यक् शुद्धिः गुरूपसत्त्यादिना प्राप्तभगवन्नामावृत्त्या भगवत्परत्वम्? ज्ञानयोगव्यवस्थितिः ज्ञानयोगे भगवज्ज्ञानोपाये व्यवस्थितिरेकाग्रतया स्थितिः? दानं यथाशक्त्यनभिलाषेण भगवत्प्रीत्यर्थमन्नादिविभागः? दम इन्द्रियनिग्रहः? यज्ञो यथाशक्ति यथाविधि यथाधिकारमग्निहोत्रादिकरणम्। चकारेण भगवद्विभूतिज्ञानेन? नान्यथेत्युच्यते। स्वाध्यायो ब्राह्मयज्ञादिः? तपो भगवदर्थं देहादिक्लेशः? आर्जवं कौटिल्यराहित्यम्।