Sbg 16.1 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।16.1।।अध्यायप्रतिपाद्यं दर्शयति -- पुमर्थे ति। यद्यपि पूर्वयोरध्याययोः साधनप्रतिपादन एव तात्पर्यं? तथापि तन्न प्रपञ्चितम्। किं नाम बन्धस्वरूपम्। साधनमनुतिष्ठता च तद्विरोधिनां त्यागोऽवश्यं करणीयः। पूर्वाध्याये चनिर्मानमोहाः [15।5] इत्यादिना पुमर्थयोर्ज्ञानमोक्षयोः साधनंयतन्तोऽप्यकृतात्मानः [15।11] इत्यादिना तद्विरोधि च सङ्क्षेपेणोक्तम्? तदुभयमिदानीं प्रपञ्चनीयम्। सुरासुरलक्षणं च तथेति तदनेनाध्यायेन दर्शयतीत्यर्थः।तपो वक्ष्यमाणं इति कश्चित् (शां.) तदसत्?देवद्विजगुरुप्राज्ञ -- [17।14] इत्यादिनोक्तस्यात्र ग्रहणे शौचादेरपि तपोग्रहणेन गृहीतत्वात् पुनरुक्तिप्रसङ्गात्? अतो वक्ष्यमाणान्तर्गतं यदत्र पृथगुच्यते तद्व्यतिरिक्तमेव? तच्च प्रधानस्यैवोपलक्षणत्वोपपत्तेर्नोपवासादीति भावेन सप्रमाणकमाह -- तप इति।