Sbg 16.1 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।16.1।।व्यवहितेन संबन्धं वदन्नध्यायान्तरमवतारयति -- दैवीति। दैवी सूचिता राक्षसीमासुरीं चैव प्रकृतिं मोहिनीमित्यादाविति शेषः। प्रकृतीनां विस्तरेण दर्शनं कुत्रोपयोगीत्याशङ्क्य विभज्योपयोगमाह -- संसारेति। अतीते चाध्याये कर्मानुबन्धीन्यधश्च मूलान्यनुसंततानीत्यत्र कर्मव्यङ्ग्या वासनाः संसारस्यावान्तरमूलत्वेनोक्तास्ता मनुष्यदेहे प्राग्भवीयकर्मानुसारेण व्यज्यमानाः सात्त्विकादिभेदेन दैव्यादिप्रकृतित्रयत्वेन विभक्ता विस्तितीर्षुर्भगवानुक्तवानित्याह -- भगवानिति। अभीरुता शास्त्रोपदिष्टेऽर्थे संदेहं हित्वानुष्ठाननिष्ठत्वं? परवञ्चना परस्य व्याजेन वशीकरणम्? माया हृदयेऽन्यथा कृत्वा बहिरन्यथा व्यवहरणम्? अनृतमयथादृष्टकथनम्। आदिपदेन विप्रलम्भादिग्रहः। उक्तमर्थं संक्षिप्याह -- शुद्धेति। एषेत्यभयाद्या ज्ञानादिस्थित्यन्ता त्रिधोक्तेति यावत्। तामेव सात्त्विकीं प्रकृतिं प्रकटयति -- यत्रेति । ज्ञाने कर्मणि वाधिकृतानामभीरुताद्या या प्रकृतिः सा तेषां तत्र सात्त्विकी संपदित्यर्थः। महाभाग्यानामत्युत्तमा दैवी संपदुक्ता? संप्रति सर्वेषां यथासंभवं संपदं व्यपदिशति -- दानमिति। बाह्यकरणविशेषे कारणमाह -- अन्तःकरणस्येति। देवयज्ञादिरित्यादिशब्देन पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्चेति त्रयमुक्तम्। ब्रह्मयज्ञस्य स्वाध्यायेन पृथक्करणात्।