Sbg 16.18 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।16.18।।अहंकारोऽहमेव सर्वश्रेष्ठ इति बुद्धिः। बलं शारीरं धनाभिजननिमित्तं च। दर्पं परावज्ञाम्। कामं क्रोधं च संश्रिताः। मां सर्वदेहेषु प्रविष्टम्। आत्मदेहे स्वदेहशोषणेनकर्षयन्तः शरीरस्थं भूतग्राममचेतसः। मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् इति वक्ष्यमाणदिशा परदेहे च हिंसादिना प्रद्विषन्तः। अभ्यसूयकाः सर्वत्र गुणेषु वेदोक्तेषु शमादिषु अशक्तत्वादिलक्षणं दोषमारोपयन्तः।