Sbg 16.18 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।16.18।।न केवलं दभमेनाविधिपूर्वकं यजन्त इत्येतावदेवापि त्वहंकारं विद्यामानैरविद्य मानौश्च गुणैरात्मन्यध्यारोपितैरात्मनो विशिष्टत्वाभिमानमविद्याख्यं कष्टतमं सर्वदोषाणां सर्वानर्थप्रवत्तीनां च मूलं तथा बलं पराभिभवमिमित्तं शरीरादिसामर्थ्यं कामरागान्वितं दर्प धर्मातिक्रमतेमन्तःकरणाश्रयं दोषाविशेषं कामं स्त्र्यादिविषयं क्रोधमनिष्टविषयं चतादेतानन्यांश्च मात्सर्यादीन्महतो दोषान् संश्रिताः। किंच न केवलमहंकारादीनेव संश्रिताः कुंतु तदाश्रयेण मामीश्वरमात्मपरदेहेषु स्वदेहेषु परदेहेषु च तद्धुद्धिकर्मसाक्षिणं मां प्रद्विषन्तः श्रुतिस्मृतिरुपमच्छासनातिवर्तत्वं तदुक्तार्थानुष्ठानपराङ्युखत्वं मद्वेषस्तं कुर्वन्तः दम्भेनाविधिपूर्वकं यजनं स्वदेहपीडनमहंकारदिकं मदवज्ञानं च श्रुतिस्मृतिप्रतिषिद्धं समाश्रिता मदाज्ञातिवर्तन इत्यर्थः। ननु सत्कर्मस्थानामनुवृत्तिं किमिति न कुर्वन्तीतिचेत्तत्राह। तेषां गुणेष्वभ्यसूयकाः दोषाविष्करणशीलाः।