Sbg 16.18 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।16.18।।आसुरीं संपदमभिजातैरधर्मजातमेव संचीयते प्रवृत्तेरपि वैदिके नैव पुण्यमित्युक्तम्। ब्रह्मज्ञानात्पुनरासुरा दूरादेवोद्विजन्त इत्याह -- अहंकारमिति। अहंकारमेव स्फोरयति -- विद्यमानैरिति। अध्यारोपितवैशिष्ट्यविषयत्वादहंकारस्याविद्यामूलत्वेनाविद्यात्वमाह -- अविद्याख्य इति। विवेकिभिस्तस्यातियत्नादेव हेयत्वं सूचयति -- कष्टतम इति। तदेव स्पष्टयति -- सर्वेति। तं संश्रिता इति संबन्धः। कार्यकरणसामर्थ्यमुक्तविशेषणं बलम्। अहंकार एव महवदधीरणापर्यन्तत्वेन परिणतो दर्पस्तं व्याकरोति -- दर्पो नामेत्यादिना। अन्यांश्च दोषान्मात्सर्यादीन्। न केवलमुक्तमेव तेषां विशेषणं किंतु कष्टतममस्ति विशेषणान्तरमित्याह -- किञ्चेति। यद्यपीश्वरं प्रति द्वेषस्तेषां संभाव्यते तथापि कथं स्वदेहे परदेहेषु च तं प्रति द्वेषो नहि तत्र भोक्तारमन्तरेणेश्वरस्यावस्थानमित्याशङ्क्याह -- तद्बुद्धीति। तेषामीश्वरं प्रति द्वेषमेव प्रकटयति, -- मच्छासनेति। ईश्वरस्य शासनं श्रुतिस्मृतिरूपं तदतिवर्तित्वं तदुक्तार्थज्ञानानुष्ठानपराङ्मुखत्वम्।