Sbg 16.17 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।16.17।। --, आत्मसंभाविताः सर्वगुणविशिष्टतया आत्मनैव संभाविताः आत्मसंभाविताः? न साधुभिः। स्तब्धाः अप्रणतात्मानः। धनमानमदान्विताः धननिमित्तः मानः मदश्च? ताभ्यां धनमानमदाभ्याम् अन्विताः। यजन्ते नामयज्ञैः नाममात्रैः यज्ञैः ते दम्भेन धर्मध्वजितया अविधिपूर्वकं विधिविहिताङ्गेतिकर्तव्यतारहितम्।।