Sbg 16.16 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।16.16।। एवंभूता यत्प्राप्नुवन्ति तच्छृणु -- अनेकेति। अनेकेषु मनोरथेषु प्रवृत्तं चित्तमनेकचित्तं तेन विभ्रान्ताः विक्षिप्ताः मोहमयेन जालेन समावृताः? मत्स्या इव सूत्रमयेन जानेन यन्त्रिताः। एवं कामभोगेषु सक्ता अभिनिविष्टाः सन्तोऽशुचौ कश्मले नरके पतन्ति।