Sbg 16.14 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।16.14।। असौ मया बलवता हतः शत्रुः। अपरान् अपि शत्रून् अहं शूरो धीरः च हनिष्ये। किमत्र मन्दधीभिः दुर्बलैः परिकल्पितेन अदृष्टादिपरिकरेणतथा च ईश्वरः अहं स्वाधीनः अहम् अन्येषां च अहम् एव नियन्ता। अहं भोगी स्वत एव अहं भोगी? न अदृष्टादिभिः। सिद्धः अहम् -- स्वतः सिद्धः अहम् न कस्माच्चिद् अदृष्टादेः। तथा स्वत एव बलवान् स्वत एव सुखी।