Sbg 16.14 scdhan
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Dhanpati ।।16.14।।यथोक्ते मदभिप्राये प्रतिबन्धकः शत्रुरपिन संभवतीत्याह। असौ देवदत्तो दुर्जयः शत्रुर्मया हतः हनिष्ये चापरानन्यान्वराकान्। ननु तपस्विनां सत्त्वे खतं सर्वेषां पराभवे तव सामर्थ्यमित्याशह्क्य किमते करिष्यन्ति तपस्विनो यतः सर्वथापि मत्तुल्यो नास्तीत्याह। ईश्वरऽहम्। ऐश्वर्यातिरेकमेव प्रकटयति। भोगी सर्वभोगो परकणवानहम्। सिद्धोऽहं पुत्रादिभिः संपन्नः। बलवान् न केवलं मानुषबलवान्सुखी चाहमेव।