Sbg 16.14 scanand
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Anandgiri ।।16.14।।यथोक्ते मदभिप्राये प्रतिबन्धकः शत्रुरपि न संभवतीत्याह -- असाविति। त्वत्तो विहीनानां त्वया परिभवेऽपि त्वत्तुल्यानां शत्रूणां परिभवो निश्चितो न भवतीत्याशङ्क्याह -- सर्वथेति। ऐश्वर्यातिरेकेऽपि कुतस्ते भोगसामर्थ्यमित्याशङ्क्याह -- अहमिति। सिद्धत्वमेव स्फुटयति -- संपन्न इति। बलवानोजस्वी? सुखी रोगरहितः।