Sbg 15.8 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।15.8।। --, यच्चापि यदा चापि उत्क्रामति ईश्वरः देहादिसंघातस्वामी जीवः? तदा कर्षति इति श्लोकस्य द्वितीयपादः अर्थवशात् प्राथम्येन संबध्यते। यदा च पूर्वस्मात् शरीरात् शरीरान्तरम् अवाप्नोति तदा गृहीत्वा एतानि मनःषष्ठानि इन्द्रियाणि संयाति सम्यक् याति गच्छति। किमिव इति? आह -- वायुः पवनः गन्धानिव आशयात् पुष्पादेः।।कानि पुनः तानि --,