Sbg 15.7 scval
Sanskrit Commentary By Sri Vallabhacharya ।।15.7।।अयमपि पुरुषो मे धाम ममैव सच्चिदानन्दात्मकस्य पुरुषोत्तमस्यैवांशोऽणुः केवलचिदात्मा स्वेच्छया पृथग्भावितः सनातनो वस्तुतो नित्यस्वरूपत्वात् -- अनादिकर्मरूपाविद्यावेष्टनतिरोहितानन्दस्वरूपो जीवभूतो जीवलोके वर्त्तमानो देवमनुष्यादिप्रकृतिपरिणामविशेषशरीरस्थानि मनष्षष्ठानीन्द्रियाणि कर्षति। कश्चित्पूर्वोक्तमार्गेणास्या अविद्याया मुक्तः स्वेन रूपेणावतिष्ठते संसारी जीवः अयं तु यतस्ततोऽतिसङ्कुचितज्ञानैश्वर्यः कर्मलब्धप्रकृतिपरिणामविशेषरूपशरीरस्थानामिन्द्रियाणां मनष्षष्ठानां कर्षणं कर्मानुगुणं करोति। सोऽप्यत्र ब्रह्मवादे सर्वशक्तिमतः पुरुषोत्तमस्यांश एव जीव इत्युच्यते। यथा च सूत्रेषुअंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके [ब्र.सू.2।3।43] इति। अयमात्मा भगवतोंऽशः सच्चिदानन्देषु चिद्रूपः इतरयोस्तत्र पराभिध्यानात्तिरोधानेन बन्धविपर्ययादिति क्रीडेच्छयैवांशत्वहेतुः। सूत्रे नानाव्यपदेशात् सर्व एवात्मनो (एत आत्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि) व्युच्चरन्ति [बृ.उ.2।2।20] रमणीयचरणाः ৷৷. कपूयचरणाः [छां.उ.5।10।7] इति च। न च ब्रह्मणो निरवयवत्वात्कथं जीवोंऽश इति वाच्यम् न हि ब्रह्म निरंशं सांशं वा क्वचिल्लोके सिद्धं? वेदैकसमधिगम्यत्वात् सत्त्वाचार्यमतोपपन्नार्थतयाऽभ्युपगन्तव्यः? न तु सर्वविप्लवः कार्यः। युक्तिस्त्वेषोपपद्यते -- विस्फुलिङ्गा इवाग्नेर्हि जडा जीवाश्च निर्गताः। सर्वतः पाणिपादान्तात्सर्वतोक्षिशिरोमुखात्।।निरिन्द्रियात्स्वरूपेण तादृशादिति निश्चयः। संदेशेन जडाः पूर्वं चिदंशेनेतरा अपि।।अन्यधर्मतिरोभावा मूलेच्छातोऽस्वतन्त्रिणः इति हि ब्रह्मवादेंऽशपक्ष एव।ननु अंशत्वेन सजातीयत्वमायाति। श्रुत्यन्तरे पुनः ब्रह्म दाशा ब्रह्म दासा ब्रह्मेमे कितवा उत [ ] इत्यत्र सर्वस्यापि ब्रह्मज्ञानेन सर्वविज्ञानप्रतिपादनात् दाशादीनामपि ब्रह्मत्वं प्रतीयते तत्कार्यत्व एव स्यादिति चेत्? न? अन्यथा चापीत्यादि। प्रकारान्तरेणापि एके शाखिनः दाशकितवादित्वमधीयते शरीरत्वेनांशत्वेन च स्वरूपतः कार्याभावेऽपि प्रकारभेदेन कार्यत्वात्। तथा च न साजात्यं आनन्दाशस्य तिरोहितत्वात्। धर्मान्तरेण साजात्यं त्विष्टमेव ततोऽग्रे च सूत्रेमन्त्रवर्णात् [ब्र.सू.2।3।44] इति पुरुष एवेद्ँसर्वं [ऋक्सं.8।4।17।2यजुः31।2] इत्युक्त्वा पादोऽस्य विश्वा भूतानि [ऋक्सं.8।4।17।3यजुः31।3] इति जीवानां पादत्वं पादेषु स्थित्वेनावांशत्वम्। अतएवाग्रे अनुस्मर्यते इतिममैवांशो जीवलोके जीवभूतः सनातनः [15।7] इति।प्रकाशादिवन्नैवं परः [ब्र.सू.2।3।46] इत्यत्र च जीवस्यांशत्वं हस्तादिवत् तद्दुःखेन परस्यापि तदा दुःखित्वं स्यादिति चेत्? एवं परो न भवति एवमिति प्रकारभेदः द्विष्टत्वेनानुभव इति यावत्। अन्यथा सर्वरूपत्वात्। कुत एवं तत्राह -- प्रकाशादिवदितिनाग्नेर्हि तापो न हिमस्य तत्स्यात् इति प्रकाशग्रहणं धर्मत्वद्योतनाय सुखदुःखादयोऽपि ब्रह्मधर्मा इति। अतो द्वैतबुद्ध्यांशस्यैव दुःखित्वं? न परस्य।अथवा प्रकाशः प्रकाश्यदोषेण यथा न दुष्टः? तापस्यापि तदंशत्वादितिस्मरन्ति च [ब्र.सू.2।3।473।2।14] इति सूत्रे ऋषयोंऽशिनं स्मरन्ति? दुःखसम्बन्धं न स्मरन्तितत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः। न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा। इतिकर्मात्मा ह्यपरो योऽसौ मोक्षबन्धैः स युज्यते। एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः [कठो.5।11] चकारात्तयोरेकं (अन्यः) पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति [मुण्ड.3।1।1] इति भाष्यात्। अतो जीवो नाम ब्रह्मांशो न तु ब्रह्मैव? कुतः,नानाव्यपदेशात्। श्रुत्यादौ एषोऽणुरात्मा चेतसा वेदितव्यः [मुण्ड.3।1।9] बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरो(प्यवरो)ऽपि दृष्टः [श्वेता.5।8] इति। अत्र बुद्धेर्गुणेनावरः तिरोभूतानन्द आत्मगुणेन त्वाराग्रमात्र एव व्यापक इति व्याख्यातम्। न हि महतो ब्रह्मणोऽणुत्वं यत्र चाणुत्वं तज्जीवान्तर्याम्यभिप्रायेण। अतएव वालाग्रशतभागस्य [श्वेता.5।9] इत्यादौ तत्त्वमसि श्वेतकेतो [छां.उ.6।8।7816] योऽसावादित्ये सोसावहं [ ] यथाग्नेः क्षुद्रा [बृ.उ.2।1।20] इत्यादौ च नानाव्यपदेशात् सर्ववाक्यबाधाभावायाणुरेव ब्रह्मांश एव जीव इति मन्तव्यम्।अथवा नानाव्यपदेशात् भेदव्यपदेशादित्यर्थः। य आत्मनि तिष्ठन्नात्मानमन्तरे यमयति यमात्मा न वेद यस्यात्मा शरीरम् [श.ब्रा.14।5।30] इति माध्यन्दिनब्राह्मणे जीवपरमात्मनोर्भेदेनोपदेशात् केवलं प्राणधारणप्रयत्नवान् ब्रह्मणोंऽशो जीवशब्देनोच्यत इत्यर्थः। यो विज्ञाने तिष्ठन् विज्ञानमन्तरो यमयति [बृ.उ.3।7।22] इति काण्वपाठे स एवार्थः। एकत्र क्वचिदन्यथाप्रतिवादिना वक्तव्यं स्यात्? न तु नानाप्रमाणवचनेषु तथा अतएव श्रुतावभेदोक्तिः तदंशत्वात्। अंशत्वं स सजातीयत्वे सति तदपेक्षया किञ्चिन्न्यूनशक्त्याश्रयत्वमिति। स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्त्तत एवमेवायमात्मेति प्रज्ञया शरीरमुद्वह्य तमुत्क्रामति तयोर्ध्वमायन्नमृतत्वमेति [कठो.6।16छा.उ.8।6।6।] ऊर्णनाभिर्यथा तन्तून् सृजते सञ्चारत्यपि। जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः [ब्रह्मो.20] इति श्रुतिस्मृत्युक्तगमनागमनादिकं चाणुत्वमन्तरेण अनुपपन्नं जीवस्य ब्रह्मांशत्वमेव प्रबोधयतीत्यणुत्वाद्ब्रह्मणोंऽश एव जीवः। जीवब्रह्मविभागस्याविद्याकल्पितत्वे मानाभावात्अविभक्तं विभक्तिमत् इतिवाक्याच्छुतौ विश्वतश्चक्षुः [ऋक्सं.8।3।16।3] इतिमन्त्रे प्रयोजनाभावेऽप्युतेतिपदश्रवणात्मसहजो ब्रह्मकृत एवायं विभागः? न त्वविद्याकल्पितः तथा सति सृष्ट्यारम्भेऽविभक्तस्य संसारित्वाभावाद्विभागस्य च संसारकल्पनमन्तरेणानुपपत्तेरन्योन्याश्रयः प्रसज्येत। विभागस्याविद्याकल्पितत्वेन तस्याः स्थितेरनुक्तसिद्धत्वान्निराधारस्थितेरसम्भावितत्वाद्भ्रान्तिरूपत्वेन द्वैतापत्तिभिया च स्वाधिष्ठानत्वस्यापि वक्तुमशक्यत्वाद्ब्रह्मणश्चाधिष्ठानत्वे संसारित्वप्रसक्त्यैकमुक्तौ सर्वमुक्तिप्रसङ्गादभावदर्शनाच्छास्त्राप्रामाण्यं सर्वविप्लवप्रसङ्ग एव। तस्मादखिलश्रुतिस्मृतिप्रामाण्याज्जीवाः सर्वे भगवतो ब्रह्मणोंऽशा अणवः सनातनाः स्वेच्छातो विभक्ता इति सर्वमनवद्यम्। प्रकृते स एकोऽयं जीवभूतः यावन्तो जीवास्तद्रूपतया जातः। समष्ट्यभिप्रायेणैकवचनम्। स च जीवलोके प्रपञ्चे। प्रपञ्चो हि जीवानां लोको वैकुण्ठो भगवत इव। अतएव प्रपञ्चक्रीडने जीवरूपस्य प्राधान्यं अनेन जीवेनात्मना [छा.उ.6।3।2] इति श्रुतेः। तादृशोऽपि न देहादिरिवागन्तुकः? किन्तु सनातनः सर्वदैवैतावज्जीवरूपः न तु भौतिकसृष्टिवत्पश्चात्तनः। प्रपञ्चे तस्यांशस्य तथाभूतस्य कार्यमाह -- मनष्षष्ठानीति। मनसा षष्ठानि षण्णां पूरणानि षट्सङ्ख्याकानि इन्द्रियाणि ज्ञानेन्द्रियाणि वासनामयलिङ्गशरीरभूतानि विषयभोगोत्पत्त्यर्थं कृषीवलो भूमिमिव लिखति? इह विषयभोगोत्पत्यनुकूलानि करोतीत्यर्थः। तान्यपि प्रकृतिस्थानीति? नत्वात्मस्थानि। प्रकृतौ संसर्जनात्प्रकृतिस्थानीत्युक्तम्। अतएवोक्तंबुद्धीन्द्रियमनःप्राणान् जनानामसृजत्प्रभुः। मात्रार्थं च भवार्थं च स्वात्मने कल्पनाय च [भाग.10।87।2] इति तत एवायं जीवः।