Sbg 15.4 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।15.4।। --, ततः पश्चात् यत् पदं वैष्णवं तत् परिमार्गितव्यम्? परिमार्गणम् अन्वेषणं ज्ञातव्यमित्यर्थः। यस्मिन् पदे गताः प्रविष्टाः न निवर्तन्ति न आवर्तन्ते भूयः पुनः संसाराय। कथं परिमार्गितव्यमिति आह -- तमेव च यः पदशब्देन उक्तः आद्यम् आदौ भवम् आद्यं पुरुषं प्रपद्ये इत्येवं परिमार्गितव्यं तच्छरणतया इत्यर्थः। कः असौ पुरुषः इति? उच्यते -- यतः यस्मात् पुरुषात् संसारमायावृक्ष प्रवृत्तिः प्रसृता निःसृता? ऐन्द्रजालिकादिव माया? पुराणी चिरंतनी।।कथंभूताः तत् पदं गच्छन्तीति? उच्यते --,