Sbg 15.4 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।15.4।।तमिममश्वत्थं छित्त्वा किं कर्तव्यमत आह -- तत इति। न केवलं निर्विकल्पसमाधिना तदसंङ्गमात्रेण कृतार्थता किं तर्हि ततोऽसङ्गान्तरं तत् श्रुतिप्रसिद्धं पदनीयं ब्रह्म परिमार्गितव्यं श्रुतियुक्तिबलेनाहमेव ब्रह्मास्मीति ज्ञातव्यम्। यस्मिन्पदे निर्विकल्पे गताः प्राप्ताः सन्तो न निवर्तन्ति न पुनर्निवर्तन्ते। तमेव प्रत्यगानन्दमाद्यं पुरुषं पुरि शरीरे शयानमहमपि प्रपद्ये शरणागतोऽस्मीति भावयेत्। भगवत एव वा इदं वचनं लोकशिक्षार्थं वर्त एव च कर्मणीतिवत्। कोऽसौ पुरुषः यतः पुराणी आद्या प्रवृत्तिःसोऽकामयत बहु स्यां प्रजायेय इत्येवंरूपा प्रसृता अस्मास्वपि प्रवृत्ता। यतो वयमपि इदानीं कामयामहे,धनादिना वयं भूयांसः स्याम प्रजया प्रजायेमहीति चेति। येनेयं प्रवृत्तिर्दर्शिता तत्प्रणामेनैव सा निवर्तिष्यत इत्यर्थः।