Sbg 15.2 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।15.2।।तस्यैव वृक्षस्यावयवसंबन्धिनीं प्रागुक्तादन्यां कल्पनामाह -- अघश्चेति। मनुष्यलोकमारभ्याऽवीचिपर्यन्तमधः तत,एवारभ्य सत्यलोकपर्यन्तमूर्ध्वं यस्य संसारवृक्षस्य शाखाः कर्मोपास्तिफलानि नानाविधानि। यथाकर्म यथाश्रुतमित्युक्तत्वात् प्रसृताः प्रकर्षेण व्याप्ताः। गुणैरुपादानभूतैः सत्त्वादिभिः प्रवृद्धाः प्रकर्षेण स्थूलीकृताः पूर्वमूर्ध्वमुक्तमथेदानीं कर्मफलजनितरागद्वेषादिवासनामूलानीव मूलानि धर्माधर्मप्रवृत्तिकारणान्येवान्तर्भावीनि तानि देवाद्यपेक्षया अधः मूलानि प्रसृतानि संततानि अनुप्रविष्टानि सर्वेष्यनुगततयाऽनवच्छिन्नानि। तानि कर्मानुबन्धीनि। क्वेत्यपेक्षायामाह। मनुष्यलोके लोक्यत इति लोकः प्राणिनिकायः मनुष्यश्चासौ लोकश्चेत्यधिकृतो ब्राह्मण्यादिविशिष्टो देहो मनुष्यलोकः तस्मिन्मनुष्यस्य लोके भूलोक इति वा। विशेषतो मनुष्याणां कर्माधिकारस्य प्रसिद्धत्वात्।