Sbg 15.1 scram
Sanskrit Commentary By Sri Ramanuja ।।15.1।।श्रीभगवानुवाच -- यं संसाराख्यम् अश्वत्थम् ऊर्ध्वमूलम् अधःशाखम् अव्ययं प्राहुः श्रुतयः -- ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः। (क0 उ 0 2।3।1)ऊर्ध्वमूलमवाक्शाखं वृक्षं यो वेद संप्रति (आरण्य0 1।11।5) इत्याद्याः।सप्तलोकोपरि निविष्टचतुर्मुखादित्वेन तस्य ऊर्ध्वमूलत्वम्? पृथिवीनिवासिसकलनरपशुमृगपक्षिकृमि कीटपतङ्गस्थावरान्ततया अधःशाखत्वम् असङ्गहेतुभूताद् आसम्यग् ज्ञानोदयात् प्रवाहरूपेण अच्छेद्यत्वेन अव्ययत्वम्। यस्य च अश्वत्थस्य छन्दांसि पर्णानि आहुः छन्दांसि श्रुतयः।
वायव्यं श्वेतमालभेत भूतिकामः (यजुः 2।1।1)ऐन्द्राग्नमेकादशकपालं निर्वपेत् प्रजाकामः (यजुः का0 2।1) इत्यादिश्रुतिप्रतिपादितैः काम्यकर्मभिः विवर्धते अयं संसारवृक्षः इति छन्दांसि एव अस्य पर्णानि? पत्रैः हि वृक्षो वर्धते।
यः तम्
एवंभूतम् अश्वत्थं
वेद स वेदवित्?
वेदो हि संसारवृक्षस्य छेदोपायं वदति? छेद्यस्य वृक्षस्य स्वरूपज्ञानं छेदनोपायज्ञानोपयोगि इति वेदविद् इति उच्यते।
तस्य
मनुष्यादिशाखस्य वृक्षस्य तत्तत्कर्मकृता अपराः
च अधः शाखाः
पुनरपि मनुष्यपश्वादिरूपेण
प्रसृताः
भवन्ति?
ऊर्ध्वं च
गन्धर्वयक्षदेवादिरूपेण प्रसृता भवन्ति। ताः च
गुणप्रवृद्धाः
गुणैः सत्त्वादिभिः प्रवृद्धाः?
विषयप्रवालाः
शब्दादिविषयपल्लवाः।कथम् इति अत्र आह --