Sbg 15.1 scpur
Sanskrit Commentary By Sri Purushottamji
।।15.1।।स्वरूपज्ञानरहिता भक्तिर्नैवोपयुज्यते। पुरुषोत्तमरूपं तु ततः पञ्चदशेऽवदत्।।1।। परीतः पार्थकृपया श्रीकृष्णः करुणानिधिः। उद्दिधीर्षुश्च तद्द्वारा लोकं भक्तिप्रवर्तितम्।।2।।
पूर्वाऽध्यायेमां च योऽव्यभिचारेण भक्तियोगेन सेवते [14।26] इत्यनेनाऽनन्यभजनमुक्तम् तत्सिद्ध्यर्थं स्वपुरुषोत्तमस्वरूपं सपरिकरं वदिष्यन् सार्धश्लोकद्वयेन तदङ्गत्यागज्ञापनाय स्वलीलात्मकसंसारवृक्षाद्भिन्नं संसारस्वरूपं वृक्षरूपेणाऽऽह -- ऊर्ध्वमूलमित्यादिना। ऊर्ध्वः पुरुषोत्तमो मूलं यस्य? स्वक्रीडार्थं प्रकटितत्वात्। अधः जीवादयः सेवार्थोत्पादिताः शाखा यस्य तम्। अव्ययं लीलार्थकत्वान्नित्यं स्थास्यति? दुर्लभत्वाज्जीवदर्शनयोग्यं? अतो व्यासादयोऽश्वत्थं प्राहुः। यस्य पर्णानि पत्राणि छायोपयोग्यानि तापापहानि। भगवत्स्वरूपभगवद्भजनादिप्रतिपादकत्वेन छन्दांसि वेदाः।यः इति दुर्लभाधिकारित्वम्। वेदं वेत्ति जानाति स वेदवित्? वेदार्थज्ञानवानित्यर्थः।