Sbg 15.1 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।15.1।।पूर्वाध्यायान्ते सुखस्यैकान्तिकस्य प्रतिष्ठा पराकाष्ठाहमित्युक्तं तत्र किं लक्षणं तत्सुखं केन वा आवृतं केन वा साधनेनास्यावरणभङ्गः केन वाधिकारिणा तत्प्राप्यमित्यादिवर्णयितुं पञ्चदशोऽध्यायः आरभ्यते -- ऊर्ध्वमूलमिति। आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते इति श्रुतिप्रसिद्धं मानुषानन्दमारभ्योत्तरोत्तरशतगुणविवृद्धानन्दसोपानपङ्क्तेरुपरिस्थितं परमानन्दाद्वयं वस्तु ऊर्ध्वं तदेव मूलं मूलकारणमस्य संसाराश्वत्थस्य तमूर्ध्वमूलम्। अधःशाखं ऊर्ध्वादधोऽधः सोपानस्थानीयाः शाखा इव शाखाः अव्यक्तमहदहंकारपञ्चतन्मात्राषोडशविकारहिरण्यगर्भविराट्प्रजापतिसुरगन्धर्वासुरनरतिर्यक्स्थावररूपा यस्य सोऽधःशाखस्तम्। न श्वोऽपि स्थातुं योग्यमनृतत्वादश्वत्थं संसारवृक्षम्। तथाप्यव्ययं मूढानामनाद्यनन्तं प्राहुर्वेदाः।ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः इत्यादयः। छन्दांसि वेदास्तदुपलक्षिता यज्ञादयस्त एव पर्णानि पर्णसंघातवच्छोभाहेतवो यस्य तरोस्तमश्वत्थं यो वेद मिथ्यात्वेन स एव वेदवित् विदितवेद्य इत्यर्थः। अत्राश्वत्थरूपकेण संसारो वर्ण्यते।