Sbg 15.1 scjaya
Sanskrit Commentary By Sri Jayatritha ।।15.1।।अध्यायप्रतिपाद्यमर्थमाह -- संसारे ति। संसरत्यनेनेति संसारः प्रकृत्यदिकं क्षेत्रम्। पूर्वाध्याये संसारैकदेशानां गुणानामेव वृत्तं दर्शितम्? अत्र पुनः समग्रं संसारस्वरूपं प्रदर्श्य तदत्ययेच्छामुत्पाद्य तत्साधनजिज्ञासुं प्रति प्रागुक्तं साधनं प्रपञ्चयति। तत्प्रसङ्गादलौकिकं भगवन्महिमानं च दर्शयत्यनेनाध्यायेनेत्यर्थः। जगद्वृक्षस्योर्ध्वमूलत्वं घटयितुमूर्ध्वशब्दाभिधेयं तावदाह -- ऊर्ध्व इति। कुतः श्रौतप्रयोगादित्याह -- ऊर्ध्वे ति। आदौ तावदहमूर्ध्वेन विष्णुना पवित्रो निष्पापोऽस्मि ततो वाजिरूपश्च नेता च वाजिनीः सूर्यः तत्र वसतीति वाजिनीवसुः? तेन वाजिनीवसुना विष्णुना अमृतं प्रारब्धकर्मनिर्मुक्तश्चास्मि। स तेजसि सूर्ये सम्पन्नः [प्रश्नो.5।5] इति श्रुतेः। ततश्च तेनैव सवर्चसं सप्रभं अनुभूयमानमिति यावत्। द्रविणं धनं सुखं चास्मीत्यर्थः। वर्चसशब्दोऽकारान्तोऽप्यस्ति ब्रह्महस्तिभ्यां वर्चसः [अष्टा.5।4।78] इत्यत्र योगविभागात्समासान्तो वा? विष्णुप्रसङ्गदर्शनाय श्रुतिशेषोदाहरणम्। इदानीं तस्य तत्र प्रवृत्तौ निमित्तमाह -- ऊर्ध्व इति। उन्नतो ह्यूर्ध्व उच्यते अतो ब्रह्मादिलोकस्थत्वादिलक्षणा सूक्ष्मत्वादिगुणयोगो वा नाश्रयणीयः सर्वतः सर्वस्मात्प्रपञ्चात् सर्वैश्च गुणैः।अधश्शाखं इत्येतद्धटयन्नधश्शब्दार्थं तावदाह -- अध इति। शाखाः काः इत्यत आह -- शाखा इति। तानि हि मूलापेक्षयाऽपकृष्टानि। ननु वृक्षमात्रस्य सारूप्यमभिदधता,कथमश्वत्थत्वमस्योच्यते इत्यत आह -- श्वोऽपी ति।सुपि स्थः [अष्टा.3।2।4] इति कः? श्वसः सकारस्य तकारो धातुसकारस्य लोपश्च निरुक्तत्वात्। श्वः स्थाता श्वत्थः? श्वत्थो न भवतीत्यश्वत्थः? किमुत कालान्तर इत्यपिशब्दः। ननु पदार्थानां बहुकालस्थायित्वदर्शनात्कथमेतत् इत्यत उक्तम् -- एके ति। तिष्ठतीति लुडर्थेनादरसूचनाय लट्। अथवाऽपिशब्देन वर्तमानातीतयोः समुच्चयः। ततः क्रियाप्रबन्धे लट्। तर्ह्यव्ययमिति व्याघात इत्यत आह -- तथापी ति विकारित्वेऽपि। एतदपि नास्ति। जगत्प्रवाहस्य प्रलये व्ययादित्यत आह -- पूर्वे ति। छन्दसां पर्णत्वं घटयति -- फले ति। फलकारित्वसादृश्यादित्यर्थः। तत्र फलं मोक्षादिकम्। छन्दसां वेदानाम्। स्यादिदं यदि पर्णानां फलकारणत्वं स्यात् तदेव कुतः अन्वयव्यतिरेकाभ्यामित्याह -- न ही ति। किन्तु जात एवेत्यन्वयोऽपि वाच्यः।