Sbg 15.1 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।15.1।।ज्ञानेन गुणात्यये दर्शिते नाशित्वे तेषां विना ज्ञानेनानत्ययादनाशित्वे तेनापि तद्योग्यत्वान्न ज्ञानं गुणात्ययहेतुरित्याशङ्कां निरस्य साक्षादेव श्रवणादिहेतुं संन्यासं विधित्सुर्ब्रह्मत्वस्य परमपुरुषार्थतां च विवक्षुरध्यायान्तरमारभते -- यस्मादिति। कर्मिणो ज्ञानिनश्च शास्त्रेऽधिकृतास्तत्र कर्मिणां कर्मानुकूलं फलमीश्वरायत्तंफलमत उपपत्तेः इति न्यायाज्ज्ञानिनामपि तत्फलमीश्वरायत्तमेवततो ह्यस्य बन्धविपर्ययौ इत्युक्तत्वाद्? यस्मादेवं तस्माद्ये भक्त्याख्येन योगेन मामेव सेवन्ते ते मत्प्रसादद्वारा ज्ञानं प्राप्य गुणातीताः मुक्ता भवन्तीति स्थितमित्यर्थः। ये त्वात्मनस्तत्त्वमेव संदेहाद्यपोहेन जानन्ति ते तेन ज्ञानेन गुणातीताः सन्तो मुक्तिं गच्छन्तीति किमु वक्तव्यमित्यर्थसिद्धमर्थमाह -- किमु वक्तव्यमिति। आत्मतत्त्वाज्ञानं यतः संसारहेतुः? ज्ञानं मोक्षानुकूलमतोऽर्जुनेन किं तदित्यपृष्टमपि तत्त्वं भगवानुक्तवान्प्रश्नाभावेऽपि तस्य तद्व्युत्पादनाभिमानादित्याह -- अति इति। तत्त्वे विवक्षिते किमिति संसारो वर्ण्यते तत्राह -- तत्रेति। अध्यायादिः सप्तम्यर्थः। वैराग्यमपि किमिति मृग्यते तत्राह -- विरक्तस्येति। इति वैराग्याय संसारवर्णनमिति शेषः। नाशसभावनायै वृक्षरूपकं बन्धहेतोर्दर्शयति -- ऊर्ध्वमूलमिति। कथं कालतः सूक्ष्मत्वं तदाह -- कारणत्वादिति। तदेव कथं कार्यापेक्षया नियतपूर्वभावित्वादित्याह -- नित्यत्वादिति। सर्वव्यापित्वाच्चोत्कर्षं संभावयति -- महत्त्वाच्चेति। ऊर्ध्वमुच्छ्रितमुत्कृष्टमिति यावत्। तस्य कूटस्थस्य कथं मूलत्वमित्याशङ्क्याह -- अव्यक्तेति। स्मृतिमूलत्वेन श्रुतिमुदाहरति -- श्रुतेश्चेति। अवाञ्च्यो निकृष्टाः शाखा इव महदाद्या यस्य स तथा। प्रकृते संसारवृक्षे पुराणसंमतिमाह -- पुराणे चेति। अव्यक्तमव्याकृतं तदेव मूलं तस्मात्प्रभवनं प्रभवो यस्य स तथा तस्यैव मूलस्याव्यक्तस्यानुग्रहादतिदृढत्वादुत्थितः संवर्धितः। तस्य लौकिकवृक्षसाधर्म्यमाह -- बुद्धीत्यादिना। वृक्षस्य हि शाखाः स्कन्धादुद्भवन्ति संसारस्य च बुद्धेः सकाशान्नानापरिणामा जायन्ते तेन बुद्धिरेव स्कन्धस्तन्मयस्तत्प्रचुरोऽयं संसारतरुरिन्द्रियाणामन्तराणि छिद्राणि कोटराणि यस्य स तथा। महान्ति भूतानि पृथिव्यादीन्याकाशान्तानि विशाखाः स्तम्भा यस्य स तथा। आजीव्यत्वमुपजीव्यत्वं? ब्रह्मणाधिष्ठितो वृक्षो ब्रह्मवृक्षस्तथापि ज्ञानं विना छेत्तुमशक्यतया सनातनश्चिरंतनः। एतच्च ब्रह्मणः परस्यात्मनो वनं वननीयं संभजनीयमत्र हि ब्रह्म प्रतिष्ठितं वृक्षस्य तस्य संसाराख्यस्य तदेव ब्रह्म सारभूतमथवास्य ब्रह्मवृक्षस्यानवच्छिन्नस्य संसारमण्डलस्य तदेतद्ब्रह्म वनमिव वनं वननीयं संभजनीयं नहि ब्रह्मातिरिक्तं संसारस्यास्पदमस्ति ब्रह्मैवाविद्यया संसरतीत्यभ्युपगमादित्यर्थः। अहं ब्रह्मेति दृढज्ञानेनोक्तं संसारवृक्षं छित्त्वा प्रतिबन्धकाभावादात्मनिष्ठो भूत्वा पुनरावृत्तिरहितं कैवल्यं प्राप्नोतीत्याह -- एतदिति। अधःशाखमित्येतद्व्याचष्टे -- महदिति। आदिशब्देनेन्द्रियादिसंग्रहः। संसारवृक्षस्यातिचञ्चलत्वे प्रमाणमाह -- प्राहुरिति। क्षणध्वंसिनोऽव्ययत्वं विरुद्धमित्याशङ्क्याह -- संसारेति। तदेवोपपादयति -- अनादीति। छादनं रक्षणं प्रावरणं वा कर्मकाण्डानि खल्वारोहावरोहफलानि नानाविधार्थवादयुक्तानि संसारवृक्षं रक्षन्ति तन्निष्ठं दोषं चावृण्वन्ति तेन तानि छन्दांसि पर्णानीव भवन्तीत्यर्थः। तदेव प्रपञ्चयति -- यथेति। उक्तेऽर्थे हेतुमाह -- धर्मेति। कर्मकाण्डानां वेदानामिति शेषः। कर्मब्रह्माख्यसर्ववेदार्थस्य तत्रान्तर्भावमुपेत्य व्याचष्टे -- वेदार्थेति। समूलसंसारवृक्षज्ञाने(कुतूहलं)ऽमूलं हित्वा मूलमेव निष्कृष्य ज्ञातुं शक्यमिति तज्ज्ञानार्थं प्रयतितव्यमिति मत्वा तज्ज्ञानस्तुतिरत्र विवक्षितेत्याह -- नहीति।