Sbg 15.17 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।15.17।। उत्तमः पुरुषः तु ताभ्यां क्षराक्षरशब्दनिर्दिष्टाभ्यां बद्धमुक्तपुरुषाभ्याम् अन्यः अर्थान्तरभूतः परमात्मा इति उदाहृतः।सर्वासु श्रुतिषु परमात्मा इति निर्देशाद् एव हि उत्तमः पुरुषो बद्धमुक्तपुरुषाभ्याम् अर्थान्तरभूतः इति अवगम्यते। कथम् यो लोकत्रयम् आविश्य बिभर्ति लोक्यत इति लोकः तत्त्रयं लोकत्रयम् अचेतनं तत्संसृष्टः चेतनो मुक्तः च इति प्रमाणावगम्यम् एतत् त्रयं य आत्मतया आविश्य बिभर्ति? स तस्माद् व्याप्याद् भर्तव्यात् च अर्थान्तरभूतः।इतः च उक्तात् लोकत्रयाद् अर्थान्तरभूतः। यतः सः अव्यय ईश्वरः च। अव्ययस्वभावो हि व्ययस्वभावाद् अचेतनात् तत्संबन्धेन तदनुसारिणः च चेतनाद् अचित्संबन्धयोग्यता पूर्वसंबन्धिनः मुक्तात् च अर्थान्तरभूत एव तथा एतस्य लोकत्रयस्य ईश्वरः ईशितव्यात् तस्माद् अर्थान्तरभूतः।