Sbg 15.17 scanand
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Anandgiri ।।15.17।।कार्यकारणाख्यौ राशी दर्शयित्वा राश्यन्तरं दर्शयति -- आभ्यामिति। वैलक्षण्यफलमाह -- क्षरेति। उपाधिद्वयकृतगुणदोषास्पर्शे फलितमाह -- नित्येति। आभ्यां क्षराक्षराभ्यामिति यावत्। उत्तमोऽन्य इति पदद्वयं वस्तुतः सर्वथैव क्षराक्षरात्मत्वाभावदृष्ट्यर्थम्। जडवर्गस्यान्यत्वकृतं स्वातन्त्र्यं निरस्यति -- स एवेति। लोकत्रयमित्युपलक्षणं सर्वं जगदपि विवक्षितम्। चैतन्यमेव बलं तत्र शक्तिर्माया तयेति यावत्। जगद्धारणे परस्य व्यापारान्तरं वारयति -- स्वरूपेति। नचास्यान्यो धारयिता स्वतोऽचलत्वादित्याह -- अव्यय इति। संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः इति श्रुत्यर्थं गृहीत्वाह -- ईश्वर इति।