Sbg 15.15 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।15.15।।तयोः सोमवैश्वानरयोः सर्वस्य भूतजातस्य च सकलप्रवृत्तिनिवृत्तिमूलज्ञानोदयदेशे हृदि सर्वं मत्संकलपेन नियच्छन् अहम् आत्मतया सन्निविष्टः ।


तथा आहुः श्रुतयः -- अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा (तै0 आ0 3।11)यः पृथिव्यां तिष्ठन् (बृह0 उ 0 3।7।3)यः आत्मनि तिष्ठन्नात्मनोऽन्तरो यमयति। (बृह0 उ 0 3।7।22)पद्मकोशप्रतीकांश हृदयं चाप्यधोमुखम्। (तै0 ना0 11)अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म (छा0 उ 0 8।1।1) इत्याद्याः।


स्मृतयः चशास्ता विष्णुरशेषस्य जगतो यो जगन्मयः। (वि0 पु0 1।17।20)प्रशासितारं सर्वेषामणीयांसमणीयसाम्। (मनु0 12।122)यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः। (मनु0 8।92) इत्याद्याः।अतो मत्तः एव सर्वेषां स्मृतिः जायते? स्मृतिः पूर्वानुभूतविषयम् अनुभवसंस्कारमात्रजं ज्ञानम्। ज्ञानम् इन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः? सः अपि मत्तः। अपोहनं च? अपोहनं ज्ञाननिवृत्तिः।अपोहनम् ऊहनं वा ऊहनं ऊहः? ऊहो नाम -- इदं प्रमाणम् इत्थं प्रवर्तितुम् अहर्ति इति प्रमाणप्रवृत्त्यर्हताविषयं सामग्यादिनिरूपणजन्यं प्रमाणानुग्राहकं ज्ञानम् ऊहो नाम वितर्कः? स च मत्त एव। वेदैः च सर्वैः अहम् एव वेद्यः। अतः अग्निवायुसूर्यसोमेन्द्रादीनां मदन्तर्यामिकत्वेन मदात्मकत्वात् तत्प्रतिपादनपरैः अपि सर्वैः वेदैः अहम् एव वेद्यः? देवमनुष्यादिशब्दैः जीवात्मा इव।


वेदान्तकृत् वेदानाम् इन्द्रं यजेत् (शत0 ब्रा0 5।1।6)वरुणं यजेत (शत0 ब्रा0 2।3।37) इति एवमादीनाम् अन्तः फलं फले हि ते सर्वे वेदाः पर्यवस्यन्ति? अन्तकृत् फलकृत्? वेदोदितफलस्य प्रदाता च अहम् एव इत्यर्थः।


तदुक्तं पूर्वम् एव -- यो यो यां यां तुनं भक्तः श्रद्धयार्चितुमिच्छति। (गीता 7।21) इत्यारभ्यलभते च ततः कामान् मयैव विहितान् हि तान्। (गीता 7।22) इतिअहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च।। (गीता 9।24) इति च। वेदविद् एव च अहम् वेदवित् च अहम् एव? एवं मदभिधायिनं वेदम् अहम् एव वेद। इतः अन्यथा यो वेदार्थं ब्रूते? न स वेदविद् इति अभिप्रायः।अतः मत्त एव सर्व वेदानां सारभूतम् अर्थं श्रृणु --