Sbg 15.15 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।15.15।।वेदान्तकृदित्युपनिषदां कर्तेत्यन्यथाप्रतीतिनिरासार्थमाह -- वेदे ति। वेदो वेदार्थः तस्यान्तो निर्णयस्तदात्मिका। तादर्थ्यात्ताच्छब्द्यं मीमांसा ब्राह्मी तस्याः कर्तेति शेषः। कुत एतत् इत्यत आह -- तथा चे ति। युक्तिसूत्रकृद्वेदार्थनिर्णयार्थयुक्तिसूचकवाक्यकृत्। स कालक इति द्वितीयेन कलधातोर्ज्ञानाद्यर्थतया प्रसिद्धत्वान्निगदव्याख्यानमेतदित्याचष्टे।