Sbg 15.15 scang

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।15.15।।अत एव बोध्यरूपतामुक्त्वा तद्बोध्यस्वरूपपृष्टपतितस्वातन्त्र्यबोधस्वभावमात्मानं परस्वभावं परमेश्वररूपं (?N परमेश्वरस्वरूपं) सर्वज्ञानस्वतन्त्रं सर्वकर्तारं दर्शयितुमाह -- सर्वस्येति। सर्वस्य वेद्यस्य यत् हृत् समस्ताहरणस्वतन्त्रबोधस्वभावं? तत्र अहमिति यो विमर्शः तत एव अपूर्वाभासनामयं ( अपूर्वावभासना -- ) ज्ञानं विश्वमहासृष्टिरूपम् अयं घट एव इति सर्वात्मकभावखण्डनासारं विकल्पज्ञानात्मकमपोहनं (?N विकल्पनाज्ञाना -- ) पाशवसृष्टिरूपमायामयप्रमात्रुचितम् स्मरणं च संस्कारशेषतां नीतस्य संहृतस्य पुनरवभासनात्मकमिति। इयता समस्तज्ञानानि संहृतानि इति सर्वज्ञतापूर्वकं स्वातन्त्र्यरूपं कर्तृत्वमुक्तम्। सर्वैरिति -- संभूय किल सर्वशास्त्राणां परमेशतत्त्वमेव निरूप्यम्। वेदवेदान्तकर्तृत्वेन कर्मफलतत्संबन्धादिद्वारतया अशेषविशेषनिर्माणे? तदुन्मूलनेन पुनः स्वरूपप्रतिष्ठापने ( -- प्रतिष्ठा भगवत एव) भगवत एव स्वातन्त्र्यमिति विश्वकर्तृत्वमुक्तम्। अन्ये तु अपोहनम् अनेन अकृतेन (S??N अन्येनाकृतेनेदं) इदं भवति इति व्यतिरेकबुद्धिः। वेदान्तं करोति इत्यात्मसाद्भावेन (?N सद्भावेन)। एवं (N एतं) वेदम्।