Sbg 15.14 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।15.14।।किंच -- अहमिति। वैश्वानरो जाठरो भूत्वा प्राणिनां देहस्यान्तः प्रविश्य प्राणापानाभ्यां तदुद्दीपकाभ्यां सहितः प्राणिभिर्भुक्तं भक्ष्यं भोज्यं लेह्यं चोष्यं चेति चतुर्विधमन्नं पचामि। तत्र यद्दन्तैरवखण्ड्यावखण्ड्य भक्ष्यतेऽपूपादि तद्भक्ष्यम्। यत्तु केवलं जिह्वया विलोड्य निगीर्यते पायासादि तद्भोज्यम्। यत्तु जिह्वायां निक्षिप्य रसास्वादेन क्रमशो निगीर्यते द्रवीभूतं गुडादि तल्लेह्यम्। यत्तु दंष्ट्रादिभिर्निष्पीड्य रसांशं निगीर्यावशिष्टं त्यज्यत इक्षुदण्डादि तच्चोष्यमिति चतुर्विधभेदः।