Sbg 15.14 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।15.14।। -- अहमे व वैश्वानरः उदरस्थः अग्निः भूत्वा -- अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते (बृ0 उ 0 5।9।1) इत्यादिश्रुतेः वैश्वानरः सन् प्राणिनां प्राणवतां देहम् आश्रितः प्रविष्टः प्राणापानसमायुक्तः प्राणापानाभ्यां समायुक्तः संयुक्तः पचामि पक्तिं करोमि अन्नम् अशनं चतुर्विधं चतुष्प्रकारं भोज्यं भक्ष्यं चोष्यं लेह्यं च। भोक्ता वैश्वानरः अग्निः? अग्नेः भोज्यम् अन्नं सोमः? तदेतत् उभयम् अग्नीषोमौ सर्वम् इति पश्यतः अन्नदोषलेपः न भवति।।किं च --,