Sbg 15.14 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।15.14।।अहमिति। किंचाहमीश्वर एव वैश्वानरो जाठराग्निर्भूत्वाअयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते इत्यादिश्रुतिप्रतिपादितः सन् प्राणिनां सर्वेषां देहमाश्रितोऽन्तःप्रविष्टः प्राणापानाभ्यां तदुद्दीपकाभ्यां संयुक्तः संधुक्षितः सन् पचामि पक्तिं नयामि। प्राणिभिर्भुक्तमन्नं चतुर्विधं भक्ष्यं भोज्यं लेह्यं चोष्यं चेति। तत्र यद्दन्तैरवखण्ड्यावखण्ड्य भक्ष्यतेऽपूपादि तद्भक्ष्यं चर्व्यमिति चोच्यते। यत्तु केवलं जिह्वया विलोड्य निगीर्यते सूपौदनादि तद्भोज्यम्। यत्तु जिह्वायां निक्षिप्य रसास्वादेन निगीर्यते किंच द्रवीभूतगुडरसालशिखरिण्यादि तल्लेह्यम्। यत्तु दन्तैर्निष्पीड्य रसांशं निगीर्यावशिष्टं त्यज्यते यथेक्षुदण्डादि तच्चोष्यमिति भेदः। भोक्ता यः सोऽग्निर्वैश्वानरो यद्भोज्यमन्नं स सोमस्तदेतदुभयमग्नीषोमौ सर्वमिति ध्यायतोऽन्नदोषलेपो न भवतीत्यपि द्रष्टव्यम्।