Sbg 15.14 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।15.14।।किंचाहं परमात्मा वैश्वानर उदरस्थोऽग्निर्भूत्वा प्राणिनां प्राणवतां देहमाश्रितः प्रविष्टः प्राणापानाभ्यामुद्दीपकाभ्यां समायुक्तः भोज्यं भक्ष्यं चोष्यं लेह्यं चेति चतुर्विधमन्नं पचामि पक्तिं करोमि। तत्र यत्पायसादि केवलं जिह्वया विलोड्य निगीर्यते तद्भोज्यम्। यत्त्वपूपादि दन्तैरवखड्यावखण्ड्य भक्ष्यते तद्भक्ष्यम्। यत्त्विवक्षुदण्डादि दंष्ट्राभिर्निपीड्य सारांशं निगीर्यावशिष्टं त्यज्यते तच्चोष्यम्। यद्द्रवीभूतं गडादि जिह्वयां निक्षिप्य रसास्वादितं निगीर्यते तल्लोह्यम्। तथाच श्रुतिःअयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते इत्याद्या। भोक्ता वैश्वानरोऽग्निर्भोज्यमन्नं सोमशब्देनोदितम्। एवं भोक्तृभोज्यरुपं सर्वं जगदग्नीषोमात्मना भुक्तिकाले ध्यायतो भोक्तुरन्नकुतो दोषो न भवतीति प्रासङ्गिकं सफलं ध्यानं द्रष्टव्यम्।