Sbg 15.14 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।15.14।।भगवतः सर्वात्मत्वे हेत्वन्तरमाह -- किञ्चेति। अहमेवेत्यहंशब्देन परो लक्ष्यते? भूत्वा पचामीति संबन्धः। परस्यैव जाठरात्मना स्थितौ श्रुतिं प्रमाणयति -- अयमिति। बाह्यं भौममग्निं व्यावर्तयति -- योऽयमिति। देहान्तरारम्भकं तृतीयं भूतं व्यवच्छिनत्ति -- येनेति। जाठरात्मना परः स्थितश्चेत्तस्य देहांश्रितत्वं सिद्धमिति न पृथग्वक्तव्यमित्याशङ्क्यपुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद इति श्रुतिमाश्रित्याह -- प्रविष्ट इति। परस्य जाठरात्मनोऽन्नपाके सहकारिकारणमाह -- प्राणेति। संयुक्तत्वं संधुक्षितत्वम्। अन्नस्य चातुर्विध्यं प्रकटयति -- भोज्यमिति। भोक्तरि वैश्वानरदृष्टिर्भोज्ये सोमदृष्टिरेवं भोक्तृभोज्यरूपं सर्वं जगदग्नीषोमात्मना भुक्तिकाले ध्यायतो भोक्तुरन्नकृतो दोषो नेति प्रासङ्गिकं सफलं ध्यानं दर्शयति -- भोक्तेति।