Sbg 15.11 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।15.11।। --, यतन्तः प्रयत्नं कुर्वन्तः योगिनश्च समाहितचित्ताः एनं प्रकृतम् आत्मानं पश्यन्ति अयम् अहम् अस्मि इति उपलभन्ते आत्मनि स्वस्यां बुद्धौ अवस्थितम्। यतन्तोऽपि शास्त्रादिप्रमाणैः? अकृतात्मानः असंस्कृतात्मानः तपसा इन्द्रियजयेन च? दुश्चरितात् अनुपरताः? अशान्तदर्पाः? प्रयत्नं कुर्वन्तोऽपि न एनं पश्यन्ति अचेतसः अविवेकिनः।।यत् पदं सर्वस्य अवभासकमपि अग्न्यादित्यादिकं ज्योतिः न अवभासयते? यत् प्राप्ताश्च मुमुक्षवः पुनः संसाराभिमुखाः न निवर्तन्ते? यस्य च पदस्य उपाधिभेदम् अनुविधीयमानाः जीवाः -- घटाकाशादयः इव आकाशस्य -- अंशाः? तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं च विवक्षुः चतुर्भिः श्लोकैः विभूतिसंक्षेपमाह भगवान् --,